देशभक्तः चन्द्रशेखर :

संस्कृत-गद्यांशों का सन्दर्भ- सहित हिन्दी में अनुवाद

1- आरक्षक:-श्रीमन् ! अयम् अस्ति चन्द्रशेखरः । अयं राजद्रोही । गतदिने अनेनैव असहयोगिनां सभायां एकस्य आरक्षकस्य दुर्जयसिंहस्य मस्तके प्रस्तरखण्डेन प्रहारः कृतः, येन दुर्जयसिंहः आहतः ।
न्यायाधीशः-( तं बालकं विस्मयेन विलोकयन्) रे बालक ! तव किं नाम ?
चन्द्रशेखरः -आजादः (स्थिरीभूय) ।
न्यायाधीश: तव पितुः किं नाम ?
चन्द्रशेखरः स्वतन्त्रः ।
न्यायाधीशः-त्वं कुत्र निवससि ? तव गृहं कुत्रास्ति ?
चन्द्रशेखरः -कारागार एव मम गृहम् ।
न्यायाधीशः-(स्वगतम्) कीदृश: प्रमत्तः स्वतन्त्रतायै अयम् ? (प्रकाशम्) अतीव धृष्टः, उद्दण्डश्चायं नवयुवक: । अहम् इमं पंचदश कशाघातान् दण्डयामि ।
चन्द्रशेखरः -नास्ति चिन्ता |
सन्दर्भ – प्रस्तुत संवाद हमारी पाठ्य-पुस्तक के ‘संस्कृत परिचायिका’ खण्ड के ‘देशभक्तः चन्द्रशेखर:’ नामक पाठ से लिया गया है।
हिन्दी अनुवाद – आरक्षक – श्रीमान् ! यह चन्द्रशेखर है। यह राजद्रोही है। गत दिवस इसने ही असहयोग आन्दोलनकारियों की सभा में एक आरक्षक दुर्जयसिंह के मस्तक पर पत्थर के टुकड़े से प्रहार किया था जिससे दुर्जयसिंह घायल हो गया था।
न्यायाधीश – (बालक को आश्चर्य से देखते हुए) अरे बालक ! तुम्हारा क्या नाम है?
चन्द्रशेखर – आजाद (दृढ़ होकर ) ।
न्यायाधीश – तुम्हारे पिता का क्या नाम है?
चन्द्रशेखर – स्वतन्त्र ।
न्यायाधीश – तुम कहाँ रहते हो? तुम्हारा घर कहाँ है?
चन्द्रशेखर – जेल ही मेरा घर है।
न्यायाधीश – (आप ही आप ) यह स्वतन्त्रता के लिए कैसा पागल हो रहा है! (प्रकट में) यह नौजवान अत्यन्त दुष्ट और उद्दण्ड है। मैं इसे पन्द्रह कोड़ों का दण्ड देता हूँ ।

2- दुर्मुख ! द्वितीय: कशाघातः । (दुर्मुखः पुनः ताडयति ।) ताडितः चन्द्रशेखरः पुनः पुनः ‘भारतं जयतु’ इति वदति । ( एवं स पञ्चदशकशाघातै: ताडित:) यदा चन्द्रशेखर: कारागारात् मुक्तः बहिः आगच्छति, तदैव सर्वे जनाः तं परितः वेष्टयन्ति बहवः बालकाः तस्य पादयोः पतन्ति, तं मालाभिः अभिनन्दयन्ति च।
सन्दर्भ-प्रस्तुत संवाद हमारी पाठ्य-पुस्तक के ‘संस्कृत परिचायिका’ खण्ड के ‘देशभक्तः चन्द्रशेखर:’ नामक पाठ से लिया गया है।
हिन्दी अनुवाद – दुर्मुख ! दूसरा कोड़े का आघात (दुर्मुख फिर कोड़ा मारता है) कोड़ा मारने पर चन्द्रशेखर बार-बार ‘भारत की जय’ कहता है।(इस प्रकार उस पर पन्द्रह कोड़ों के आघात किये गये) जब चन्द्रशेखर जेल से छूटकर बाहर आता है, तभी सब लोग उसे सब ओर से घेर लेते हैं। बहुत-से बालक उसके पैरों में पड़ते हैं। मालाओं से उसका अभिनन्दन करते हैं।

संस्कृत प्रश्नोत्तर

1.चन्द्रशेखरः कः आसीत् ?
उत्तर- चन्द्रशेखरः प्रसिद्धः क्रान्तिकारी देशभक्तश्चासीत्।
2. चन्द्रशेखरः स्वनाम किम् अकथयत् ?
उत्तर- चन्द्रशेखरः स्वनाम ‘आजाद’ इति अकथयत् ।
3. चन्द्रशेखरः स्वगृहं किम् अवदत् ?
उत्तर- चन्द्रशेखरः स्वगृहं कारागारम् अवदत्।
4.न्यायाधीशः चन्द्रशेखरं कथम् किम् अदण्डयत् ?
उत्तर- न्यायाधीशः चन्द्रशेखरं पञ्चदश कशाघातान् अदण्डयत्।
5. ‘कारागार एव मम गृहम्’ इति कः अवदत् ?
उत्तर- ‘कारागार एव मम गृहम्’ इति चन्द्रशेखरः अवदत्।
6. कशया ताडिते चन्द्रशेखरः किम् अकथयत् ?
या कशया ताडितः चन्द्रशेखरः पुनः पुनः किम् अवदत् ?
उत्तर- कशया ताडित: चन्द्रशेखरः पुनः पुनः ‘जयतु भारतम्’ इति अकथयत्।
7. दुर्मुखः कः आसीत् ?
उत्तर- दुर्मुखः चाण्डालः आसीत्।
8. राष्ट्रभक्तः कः अस्ति ?
उत्तर- राष्ट्रभक्तः चन्द्रशेखरः अस्ति।
9. न्यायाधीशः कः आसीत्?
उत्तर- न्यायाधीशः एकः दुर्धर्षः पारसीकः आसीत्?
10. प्रतिकशाघातपश्चात् चन्द्रशेखरः किम् अकथयत्?
उत्तर- प्रतिकशाघातपश्चात् चन्द्रशेखरः ‘जयतु भारतम्’ इति अकथयत्।
11. कद्रशेखरः स्वपितुः नाम किम् अकथयत् ?
उत्तर- चन्द्रशेखरः स्वपितुः ‘स्वतंत्रः’ इति अकथयत्।
12. न्यायाधीशस्य पीठे (आसने) कः अतिष्ठत् ?
उत्तर- न्यायाधीशस्य पीठे (आसने) एक पारसीक: अतिष्ठत्।